अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 6
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
अ॑सन्म॒न्त्राद्दु॒ष्वप्न्या॑द्दुष्कृ॒ताच्छम॑लादु॒त। दु॒र्हार्द॒श्चक्षु॑षो घो॒रात्तस्मा॑न्नः पाह्याञ्जन ॥
स्वर सहित पद पाठअ॒स॒त्ऽम॒न्त्रात् । दु॒:ऽस्वप्न्या॑त् । दु॒:ऽकृ॒तात् । शम॑लात् । उ॒त । दु॒:ऽहार्द॑: । चक्षु॑ष: । घो॒रात् । तस्मा॑त् । न॒: । पा॒हि॒ । आ॒ऽअ॒ञ्ज॒न॒ ॥९.६॥
स्वर रहित मन्त्र
असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत। दुर्हार्दश्चक्षुषो घोरात्तस्मान्नः पाह्याञ्जन ॥
स्वर रहित पद पाठअसत्ऽमन्त्रात् । दु:ऽस्वप्न्यात् । दु:ऽकृतात् । शमलात् । उत । दु:ऽहार्द: । चक्षुष: । घोरात् । तस्मात् । न: । पाहि । आऽअञ्जन ॥९.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(असन्मन्त्रात्) असत्+मत्रि गुप्तभाषणे-घञ्। मन्त्रा मननात्-निरु० ७।१२। असत्यभाषणात् (दुष्वप्न्यात) दुःस्वप्न-यत्। दुर् दुष्टेषु स्वप्नेषु भवात् कुविचारात् (दुष्कृतात्) दुष्टकृतात्। पापात् (शमलात्) शकिशम्योर्नित्। उ० १।११२। इति शम उपशमे-कलप्रत्ययः। अशुद्धव्यवहारात् (उत) अपि च (दुर्हार्दः) अ० २।७।५। हार्दयतेः क्विपि णिलोपे रूपम्। दुष्टहृदययुक्तात् (चक्षुषः) नेत्रात् (घोरात्) क्रूरात् (तस्मात्) उपर्युक्तात् सर्वस्मात् (नः) अस्मान् (पाहि) रक्ष (आञ्जन) म० ३। हे जगतो व्यक्तीकारक ब्रह्म ॥
इस भाष्य को एडिट करें