Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 2
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - आञ्जन सूक्त

    प॑रि॒पाणं॒ पुरु॑षाणां परि॒पाणं॒ गवा॑मसि। अश्वा॑ना॒मर्व॑तां परि॒पाणा॑य तस्थिषे ॥

    स्वर सहित पद पाठ

    प॒रि॒ऽपान॑म् । पुरु॑षाणाम् । प॒रि॒ऽपान॑म् । गवा॑म् । अ॒सि॒ । अश्वा॑नाम् । अर्व॑ताम् । प॒रि॒ऽपाना॑य । त॒स्थि॒षे॒ ॥९.२॥


    स्वर रहित मन्त्र

    परिपाणं पुरुषाणां परिपाणं गवामसि। अश्वानामर्वतां परिपाणाय तस्थिषे ॥

    स्वर रहित पद पाठ

    परिऽपानम् । पुरुषाणाम् । परिऽपानम् । गवाम् । असि । अश्वानाम् । अर्वताम् । परिऽपानाय । तस्थिषे ॥९.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 2

    टिप्पणीः - २−(परिपाणम्) पातेः करणे-ल्युट्। वा भावकरणयोः। पा० ८।५।१०। इति विकल्पेन नस्य णः। परिरक्षणसाधनम् (पुरुषाणाम्) अ० १।१६।४। पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा पूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य-निरु० २।३। अग्रगामिनाम्। मनुष्याणाम् (गवाम्) धेनूनाम् (असि) भवसि (अश्वानाम्) मार्गव्यापनशीलानां तुरङ्गाणाम् (अर्वताम्) स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति ऋ गतिप्रापणयोः-वनिप्। अर्वणस्त्रसावनञः। पा० ६।४।१२७। इति नकारस्य तृ=तकारः। गन्तॄणाम्। शीघ्रगामिनाम् (परिपाणाय) परिरक्षणाय (तस्थिषे) ष्ठा-लिट्। स्थितं बभूविथ त्वं ब्रह्म ॥

    इस भाष्य को एडिट करें
    Top