अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 7
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
इ॒दं वि॒द्वाना॑ञ्जन स॒त्यं व॑क्ष्यामि॒ नानृ॑तम्। स॒नेय॒मश्वं॒ गाम॒हमा॒त्मानं॒ तव॑ पूरुष ॥
स्वर सहित पद पाठइ॒दम् । वि॒द्वान् । आ॒ऽअ॒ञ्ज॒न॒ । स॒त्यम् । व॒क्ष्या॒मि॒ । न । अनृ॑तम् ।स॒नेय॑म् । अश्व॑म् । गाम् । अ॒हम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥९.७॥
स्वर रहित मन्त्र
इदं विद्वानाञ्जन सत्यं वक्ष्यामि नानृतम्। सनेयमश्वं गामहमात्मानं तव पूरुष ॥
स्वर रहित पद पाठइदम् । विद्वान् । आऽअञ्जन । सत्यम् । वक्ष्यामि । न । अनृतम् ।सनेयम् । अश्वम् । गाम् । अहम् । आत्मानम् । तव । पुरुष ॥९.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्य्ये कमिन्, नलोपः। परमैश्वर्यम्। महाप्रभुताम् (विद्वान्) अ० २।१।२। विद ज्ञाने-शतृ। वसुरादेशः। जानन् (सत्यम्) यथार्थम् (वक्ष्यामि) वच-लृट्। वदिष्यामि (न) नहि (अनृतम्) असत्यम् (सनेयम्) षण सम्भक्तौ-लिङ्। संभजेयम् (अश्वम्) हयम् (गाम्) धेनुं भूमिं वा (अहम्) उपासकः (आत्मानम्) अ० १।१८।३। आत्मबलम्। पुरुषार्थम् (तव) तव प्रसादात् (पूरुष) म० २। छान्दसो दीर्घः। हे अग्रगामिन् परमात्मन् ॥
इस भाष्य को एडिट करें