अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 3
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - आञ्जन सूक्त
उ॒तासि॑ परि॒पाणं॑ यातु॒जम्भ॑नमाञ्जन। उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम् ॥
स्वर सहित पद पाठउ॒त । अ॒सि॒ । प॒रि॒ऽपान॑म् । या॒तु॒ऽजम्भ॑नम् । आ॒ऽअ॒ञ्ज॒न॒ । उ॒त । अ॒मृत॑स्य । त्वम् । वे॒त्थ॒ । अथो॒ इति॑ । अ॒सि॒ । जी॒व॒ऽभोज॑नम् । अथो॒ इति॑ । ह॒रि॒त॒ऽभे॒ष॒जम् ॥९.३॥
स्वर रहित मन्त्र
उतासि परिपाणं यातुजम्भनमाञ्जन। उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥
स्वर रहित पद पाठउत । असि । परिऽपानम् । यातुऽजम्भनम् । आऽअञ्जन । उत । अमृतस्य । त्वम् । वेत्थ । अथो इति । असि । जीवऽभोजनम् । अथो इति । हरितऽभेषजम् ॥९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(उत) अपि च (असि) भवसि (परिपाणम्) म० २। परिरक्षणसाधनम् (यातुजम्भनम्) कृवापाजिमि०। उ० १।१। इति यत ताडने-उण्। जभि नाशने-ल्युट्। यातूनां यातनानां पीडानां नाशनम् (आञ्जन) आङ् पूर्वाद् अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-ल्युट्। आसमन्ताद् अनक्ति व्यनक्ति व्यक्तं करोति अव्यक्तं जगत् आञ्जनम्। तत्सम्बुद्धौ। हे यथावत् संसारस्य व्यक्तीकारक ब्रह्म (अमृतस्य) मोक्षस्य। परमानन्दस्य (त्वम्) (वेत्थ) विदो लटो वा० पा० ३।४।८३। इति थल् आदेशः। ज्ञाता भवसि (अथो) अपि च (जीवभोजनम्) भुज पालनाभ्यवहारयोः-ल्युट्। जीवानां जीवतां प्राणिनां पालनम् (हरितभेषजम्) हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे-इनन्। हरति सुखमिति हरितः। भेषं रोगं जयतीति भेषजम्। भेष+जि-ड। हरितस्य रोगजनितस्य पीतवर्णस्यौषधम्। तद्वद् उपकारकम् ॥
इस भाष्य को एडिट करें