अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 3
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, आपः, राज्याभिषेकः
छन्दः - त्रिष्टुप्
सूक्तम् - राज्यभिषेक सूक्त
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषं॒ छ्रियं॒ वसा॑नश्चरति॒ स्वरो॑चिः। म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥
स्वर सहित पद पाठआ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रिय॑म् । वसा॑न: । च॒र॒ति॒ । स्वऽरो॑चि: । म॒हत् । तत् । वृष्ण॑: । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑प: । अ॒मृता॑नि । त॒स्थौ॒ ॥८.३॥
स्वर रहित मन्त्र
आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः। महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥
स्वर रहित पद पाठआऽतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियम् । वसान: । चरति । स्वऽरोचि: । महत् । तत् । वृष्ण: । असुरस्य । नाम । आ । विश्वऽरूप: । अमृतानि । तस्थौ ॥८.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(आतिष्ठन्तम्) सिंहासनादिकम् आरोहन्तम् (परि) परितः सर्वतः (विश्वे) विश्वे देवाः। सर्वे शूरविद्वांसः (अभूषन्) भूष अलंकारे लुङ्। यद्वा, भू प्राप्तौ छान्दसे लुङि सिप्। अलंकृतवन्तः। प्राप्तवन्तः (श्रियम्) क्विब् वचिप्रच्छिश्रिस्रु०। उ० २।५७। इति श्रिञ् सेवने-क्विप् दीर्घश्च। श्रयति पुरुषार्थिनं सा श्रीः। राजलक्ष्मीम्। सम्पत्तिम् (वसानः) वस आच्छादने-लटः शानच्। धारयन् (चरति) राज्यपालने वर्तते (स्वरोचिः) वसौ रुचेः संज्ञायाम्। उ० २।१११। रुच दीप्तौ अभिप्रीप्तौ च-इसिन्। स्वयंरोचमानो दीप्यमानः। स्वरुचिः। स्वतन्त्रः (महत्) अधिकम्। विशालम् (तत्) प्रसिद्धम् (वृष्णः) अ० १।१२।१। वर्षकस्य। ऐश्वर्ययुक्तस्य। इन्द्रस्य (असुरस्य) अ० १।१०।१। दीप्यमानस्य। प्राणप्रदस्य। शूरस्य (नाम) अ० १।२४।३। म्ना अभ्यासे-मनिन्। अभ्यस्तं नामधेयम्। संज्ञा। (आ) समन्तात् (विश्वरूपः) शत्रुमित्रकलत्रादिषु नानास्वभावः। यथायोग्यं वर्त्तमानः (अमृतानि) अनश्वरसुखानि (आ तस्थौ) आरूढवान्। प्राप्तवान् ॥
इस भाष्य को एडिट करें