Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 13
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥

    स्वर सहित पद पाठ

    तृती॑यकम् । वि॒ऽतृ॒ती॒यम् । स॒द॒म्ऽदिम् । उ॒त । शा॒र॒दम् । त॒क्मान॑म् । शी॒तम् । रू॒रम् । ग्रैष्म॑म् । ना॒श॒य॒ । वार्षि॑कम् ॥२२.१३॥


    स्वर रहित मन्त्र

    तृतीयकं वितृतीयं सदन्दिमुत शारदम्। तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥

    स्वर रहित पद पाठ

    तृतीयकम् । विऽतृतीयम् । सदम्ऽदिम् । उत । शारदम् । तक्मानम् । शीतम् । रूरम् । ग्रैष्मम् । नाशय । वार्षिकम् ॥२२.१३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 13

    टिप्पणीः - १३−(तृतीयकम्) अ० १।२५।४। तृतीयदिने आगच्छन्तम् (वितृतीयम्) तृतीयदिनाद् भिन्नम् (सदन्दिम्) सदम् इत्यव्ययं सदेत्यर्थे। उपसर्गे घोः किः। पा० ३।३।९२। इति सदम्+दो अवखण्डने−कि। सदा खण्डकं पीडकम्। निरन्तरम् (उत) अपि (शारदम्) शरद्−अण्। शरदि भवम् (तक्मानम्) दुःखकरं ज्वरम् (शीतम्) अ० १।२५।४। शीतस्पर्शम् (रूरम्) म० १०। क्रूरम् (ग्रैष्मम्) घर्मग्रीष्मौ। उ० १।१४९। इति ग्रसु अदने−मक्, ग्री भावः, षुक् च। ग्रीष्म−अण्। ग्रीष्मे भवम् (नाशय) नष्टं कुरु (वार्षिकम्) अ० ४।१९।१। वर्षासु भवम् ॥

    इस भाष्य को एडिट करें
    Top