अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 7
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
तक्म॒न्मूज॑वतो गच्छ॒ बल्हि॑कान्वा परस्त॒राम्। शू॒द्रामि॑च्छ प्रप॒र्व्यं॑ तां त॑क्म॒न्वीव॑ धूनुहि ॥
स्वर सहित पद पाठतक्म॑न् । मूज॑ऽवत: । ग॒च्छ॒ । बल्हि॑कान् । वा॒ । प॒र॒:ऽत॒राम् ।शू॒द्राम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य᳡म् । तान् । त॒क्म॒न् । विऽइ॑व । धू॒नु॒हि॒ ॥२२.७॥
स्वर रहित मन्त्र
तक्मन्मूजवतो गच्छ बल्हिकान्वा परस्तराम्। शूद्रामिच्छ प्रपर्व्यं तां तक्मन्वीव धूनुहि ॥
स्वर रहित पद पाठतक्मन् । मूजऽवत: । गच्छ । बल्हिकान् । वा । पर:ऽतराम् ।शूद्राम् । इच्छ । प्रऽफर्व्यम् । तान् । तक्मन् । विऽइव । धूनुहि ॥२२.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(तक्मन्) हे ज्वर (मूजवतः) म० ५। मुञ्जादितृणयुक्तान् पर्वतान् (गच्छ) प्राप्नुहि (बल्हिकान्) म० ५। हिंसादेशान् (वा) अथवा (परस्तराम्) किमेत्तिङव्यय०। पा० ५।४।११। इति परस्+तरप्−आमु। दूरतरम् (शूद्राम्) अरु ४।२०।४। शोचनीयां मूर्खाम् (इच्छ) अन्विच्छ (प्रफर्व्यम्) अ० ३।१७।३। कोररन्। उ० ४।१५५। इति प्र+फर्व गतौ−अरन्, ङीप्। वा छन्दसि। पा० ६।१।१०६। इति अमि पूर्वरूपाभावे यणादेशः। प्रफर्वरीम्। इतस्ततो गमनशीलां व्यभिचारिणीम् (तान्) तर्व हिंसायाम्−ड। हिंसकान् (वि इव) वि विशेषेण। इव अवधारणे। एव (धूनुहि) कम्पय ॥
इस भाष्य को एडिट करें