अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 14
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः। प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥
स्वर सहित पद पाठग॒न्धारि॑भ्य: । मूज॑वत्ऽभ्य:। अङ्गे॑भ्य: । म॒गधे॑भ्य: । प्र॒ऽए॒ष्यन् । जन॑म्ऽइव । शे॒व॒ऽधिम् ।त॒क्मान॑म् । परि॑ । द॒द्म॒सि॒ ॥२२.१४॥
स्वर रहित मन्त्र
गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः। प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥
स्वर रहित पद पाठगन्धारिभ्य: । मूजवत्ऽभ्य:। अङ्गेभ्य: । मगधेभ्य: । प्रऽएष्यन् । जनम्ऽइव । शेवऽधिम् ।तक्मानम् । परि । दद्मसि ॥२२.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(गन्धारिभ्यः) गन्ध−आरिभ्यः। गन्ध हिंसागतियाचनेषु−अच्। वसिवपियजि०। उ० ४।१२५। इति गन्ध+ऋ गतौ−इञ्। हिंसाप्रापकेभ्यः (मूजवद्भ्यः) म० ५। मुञ्जादितृणयुक्तेभ्यः (अङ्गेभ्यः) अङ्ग लक्षणे−अच्। अङ्गेति क्षिप्रनामाञ्चितमेवाङ्कितं भवति−निरु० ५।१७। अप्रधानेभ्यः (मगधेभ्यः) मगि सर्पणे−अच्। मगं दोषं दधातीति। आतोऽनुपसर्गे कः। पा० ३।२।३। इति मग+धा−क। दोषधारकेभ्यो देशेभ्यः (प्रैष्यन्) प्र+इण् गतौ−लृटः शतृ, एकवचनं छान्दसम्। प्रैष्यन्तः। प्रगमिष्यन्तः (जनम्) पामरं पुरुषम् (इव) यथा (शेवधिम्) इण्शीभ्यां वन्। उ० १।१५२। इति शीङ् स्वप्ने−वन्। कर्मण्यधिकरणे च। पा० ३।३।५३। इति शेव+धाञ्−कि। शयनाधारम् (तक्मानम्) कृच्छ्रजीवनकरं ज्वरम् (परि दद्मसि) परि त्यजामः ॥
इस भाष्य को एडिट करें