Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 12
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    तक्म॒न्भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह। पा॒प्मा भ्रातृ॑व्येण स॒ह गच्छा॒मुमर॑णं॒ जन॑म् ॥

    स्वर सहित पद पाठ

    तक्म॑न् । भ्रात्रा॑ । ब॒लासे॑न् । स्वस्रा॑ । कासि॑कया । स॒ह । पा॒प्मा । भ्रातृ॑व्येण । स॒ह । गच्छ॑ । अ॒मुम् । अर॑णम् । जन॑म् ॥२२.१२॥


    स्वर रहित मन्त्र

    तक्मन्भ्रात्रा बलासेन स्वस्रा कासिकया सह। पाप्मा भ्रातृव्येण सह गच्छामुमरणं जनम् ॥

    स्वर रहित पद पाठ

    तक्मन् । भ्रात्रा । बलासेन् । स्वस्रा । कासिकया । सह । पाप्मा । भ्रातृव्येण । सह । गच्छ । अमुम् । अरणम् । जनम् ॥२२.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 12

    टिप्पणीः - १२−(तक्मन्) हे ज्वर ! (भ्रात्रा) सहोदरेण (बलासेन) म० ११। बलनाशकेन श्लेष्मविकारेण (स्वस्रा) अ० १।२८।४। भगिन्या (कासिकया) कास−कुत्सायां कन्, टाप्। कुत्सितकासेन (सह) सहितः (पाप्मा) रक्षितव्यमस्मात्। नामन्सीमन्व्योमन्०। उ० ४।१५१। इति पा रक्षणे−मनिन्, पुक् च। विभक्तेः सु। पाप्मना। चर्मरोगेण (भ्रातृव्येण) भ्रातुर्व्यच्च। पा० ४।१।१४४। इति भ्रातृ−व्यत्। भ्रातृजेन (सह) (गच्छ) प्राप्नुहि (अमुम्) तम् (अरणम्) अ० १।१९।३। अ+रण शब्दे−अप्। असम्भाष्यम्। निन्द्यम्। (जनम्) लोकम् ॥

    इस भाष्य को एडिट करें
    Top