अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - द्विपदा साम्नीबृहती
सूक्तम् - अग्नि सूक्त
द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒तं र॑क्षन्ति वि॒श्वहा॑ ॥
स्वर सहित पद पाठद्वार॑: । दे॒वी: । अनु॑ । अ॒स्य॒ । विश्वे॑ । व्र॒तम् । र॒क्ष॒न्ति॒ । वि॒श्वहा॑ ॥२७.७॥
स्वर रहित मन्त्र
द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥
स्वर रहित पद पाठद्वार: । देवी: । अनु । अस्य । विश्वे । व्रतम् । रक्षन्ति । विश्वहा ॥२७.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(द्वारः) द्वृ संवरणे णिच्−विच्। द्वारः पदनाम−निघ० ५।२। द्वारो जवतेर्वा द्रवतेर्वा−निरु० ८।९। यज्ञे गृहद्वार इति कात्थक्योऽग्निरिति शाकपूणिः−निरु० ८।१०। द्वाराणि (देवीः) देदीप्यमानाः (अनु) आनुकूल्येन। (अस्य) विदुषः (विश्वे) विश्वेदेवाः सर्वे दिव्यगुणाः (व्रतम्) सत्यभाषणादिकर्म (रक्षन्ति) पान्ति (विश्वहा) धस्य हः। विश्वधा। अनेकधा ॥
इस भाष्य को एडिट करें