अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - द्विपदार्ची बृहती
सूक्तम् - अग्नि सूक्त
मध्वा॑ य॒ज्ञं न॑क्षति प्रैणा॒नो नरा॒शंसो॑ अ॒ग्निः सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥
स्वर सहित पद पाठमध्वा॑ । य॒ज्ञम् । न॒क्ष॒ति॒ । प्रै॒णा॒न: । नरा॒शंस॑: । अ॒ग्नि: । सु॒ऽकृत् । दे॒व: । स॒वि॒ता । वि॒श्वऽवा॑र: ॥२७.३॥
स्वर रहित मन्त्र
मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥
स्वर रहित पद पाठमध्वा । यज्ञम् । नक्षति । प्रैणान: । नराशंस: । अग्नि: । सुऽकृत् । देव: । सविता । विश्वऽवार: ॥२७.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(मध्वा) म० २। ज्ञानेन (यज्ञम्) समाजम् (नक्षति) गच्छति (प्रैणानः) प्रैणृ गतिप्रेरणश्लेषणेषु−शानच्, आत्मनेपदं छान्दसम्। प्रेरयन् (नराशंसः) नर+आङ्+शंसु स्तुतौ−अ, टाप्। नरेषु आशंसा प्रशंसा यस्य सः। नराशंसो यज्ञ इति कात्थक्यो नरा अस्मिन्नासीनाः शंसन्ति। अग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति−निरु० ८।६। (अग्निः) विद्वान् पुरुषः (सुकृत्) सुकर्मा (देवः) व्यवहर्ता (सविता) षु प्रसवैश्वर्ययोः−तृच्, अदा० सेट्। ऐश्वर्यवान् (विश्ववारः) विश्व+वृञ् वरणे−घञ्। सर्वैर्वरणीयः स्वीकरणीयः ॥
इस भाष्य को एडिट करें