अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - षट्पदा अनुष्टुब्गर्भा परातिजगती
सूक्तम् - अग्नि सूक्त
दैवा॒ होता॑र ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वया॒भि गृ॑णत गृ॒णता॑ नः॒ स्वि॑ष्टये। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्ता॒मिडा॒ सर॑स्वती म॒ही भार॑ती गृणा॒ना ॥
स्वर सहित पद पाठदैवा॑: । होता॑र: । ऊ॒र्ध्वम् । अ॒ध्व॒रम् । न॒: । अ॒ग्ने: । जि॒ह्वया॑ । अ॒भि ।गृ॒ण॒त॒ । गृ॒णत॑ । न॒: । सुऽइ॑ष्टये । ति॒स्र: । दे॒वी: । ब॒र्हि: । आ । इ॒दम् । स॒द॒न्ता॒म् । इडा॑ । सर॑स्वती। म॒ही । भार॑ती । गृ॒णा॒ना ॥२७.९॥
स्वर रहित मन्त्र
दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृणत गृणता नः स्विष्टये। तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥
स्वर रहित पद पाठदैवा: । होतार: । ऊर्ध्वम् । अध्वरम् । न: । अग्ने: । जिह्वया । अभि ।गृणत । गृणत । न: । सुऽइष्टये । तिस्र: । देवी: । बर्हि: । आ । इदम् । सदन्ताम् । इडा । सरस्वती। मही । भारती । गृणाना ॥२७.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(दैवाः) देव−अञ्। देवेषु विद्वत्सु भवाः। विद्वांसः (होतारः) सुखस्य दातारः (ऊर्ध्वम्) उन्नतम् (अध्वरम्) न+ध्वृ−अच्। अकुटिलं व्यवहारम् (नः) अस्माकम् (अग्नेः) शारीरिकस्य बाह्यस्य तेजसः [जिह्वया] अ० १।१०।३। जि जये−वन् हुक् च। जयेन (अभि) सर्वतः (गृणत गृणत) नित्यं गृणीत वर्णयत (नः) अस्माकम् (स्विष्टये) यज−क्तिन्। शोभनाय समागमाय (मही) महती। विशालगुणवती (गृणाना) उपदिशन्ती। अन्यद् यथा, अ० ५।१२८। (तिस्रः) त्रिसंख्याकाः (देवीः) देव्यः। दीप्यमानाः (बर्हिः) प्रवृद्धं कर्म (आसदन्ताम्) आगच्छन्तु (इडा) स्तुत्या नीतिः (सरस्वती) विज्ञानवती प्रज्ञा (भारती) पोषयित्री विद्या ॥ सब विद्वान् मनुष्य उत्तम-उत्तम नीति, बुद्धि और अनेक व्यावहारिक विद्यायें प्राप्त करके परस्पर वृद्धि करें ॥
इस भाष्य को एडिट करें