अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 11
सूक्त - अथर्वा
देवता - सर्वात्मा रुद्रः
छन्दः - पङ्क्तिः
सूक्तम् - ब्रह्मविद्या सूक्त
इन्द्र॑स्य गृ॒होऽसि॑। तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
स्वर सहित पद पाठइन्द्र॑स्य । गृ॒ह: । अ॒सि॒ । तम् । त्वा॒ । प्र । प॒द्ये॒ । तम् । त्वा॒ । वि॒शा॒मि॒ । सर्व॑ऽगु: । सर्व॑ऽपुरुष: । सर्व॑ऽआत्मा । सर्व॑ऽतनू: । स॒ह । यत् । मे॒ । अस्ति॑ । तेन॑ ॥६.११॥
स्वर रहित मन्त्र
इन्द्रस्य गृहोऽसि। तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन्मेऽस्ति तेन ॥
स्वर रहित पद पाठइन्द्रस्य । गृह: । असि । तम् । त्वा । प्र । पद्ये । तम् । त्वा । विशामि । सर्वऽगु: । सर्वऽपुरुष: । सर्वऽआत्मा । सर्वऽतनू: । सह । यत् । मे । अस्ति । तेन ॥६.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(इन्द्रस्य) जीवात्मनः (गृहः) आश्रयः (असि) (तम्) तादृशम् (त्वाम्) परमात्मानम् (प्रपद्ये) प्राप्नोमि (तम्) (त्वा) त्वाम् (प्रविशामि) प्रविष्टो भवामि (सर्वगुः) गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। इति गोशब्दस्य ह्रस्वः। सर्वपशुभिर्युक्तः (सर्वपुरुषः) सर्वजनसहितः (सर्वात्मा) पूर्णात्मबलसहितः (सर्वतनूः) कृषिचमितनि०। उ० १।८०। इति तनु विस्तारे−ऊ प्रत्ययः। सर्वशरीरः (सह) सहितः (यत्) यत्किंचिद्वस्तु (मे) मम (अस्ति) भवति (तेन) वस्तुना ॥
इस भाष्य को एडिट करें