अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 3
स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑। तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥
स्वर सहित पद पाठस॒हस्र॑ऽधारे । ए॒व । ते । सम् । अ॒स्व॒र॒न् । दि॒व: । नाके॑ । मधु॑ऽजिह्वा: । अ॒स॒श्चत॑: । तस्य॑ । स्पश॑: । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑य: । प॒देऽप॑दे । पा॒शिन॑: । स॒न्ति॒ । सेत॑वे ॥६.३॥
स्वर रहित मन्त्र
सहस्रधार एव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः। तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥
स्वर रहित पद पाठसहस्रऽधारे । एव । ते । सम् । अस्वरन् । दिव: । नाके । मधुऽजिह्वा: । असश्चत: । तस्य । स्पश: । न । नि । मिषन्ति । भूर्णय: । पदेऽपदे । पाशिन: । सन्ति । सेतवे ॥६.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सहस्रधारे) सहस्रप्रकारेण धारके (एव) निश्चयेन (ते) प्रसिद्धा ऋषयः (सम्) सम्यक् (अस्वरन्) शब्दं कृतवन्तः (दिवः) प्रकाशस्य (नाके) दुःखरहिते परमात्मनि (मधुजिह्वाः) मन ज्ञाने−उ, नस्य ध−अ० १।४।१। शेवायह्वजिह्वा०। उ० १।१५४। इति जि जये−वन् धातोर्हुक्। मधुना ज्ञानेन जयशीलाः। यद्वा, मधुरभाषिणः (असश्चतः) सश्चति गतिकर्मा−निघ० २।१४। ततः शतृ। निश्चलस्वभावाः (तस्य) नाकस्य परमात्मनः (स्पशः) अ० ४।१६।४। बाधमानाः। बन्धनगुणाः (न) निषेधे (नि मिषन्ति) निमेषं कुर्वन्ति (भूर्णयः) घृणिपृश्निपार्ष्णिभूर्णयः उ० ४।५२। इति भॄ भर्त्सने भरणे च−नि। भर्त्सनशीलाः (पदेपदे) स्थाने स्थाने (पाशिनः) बन्धनयुक्ताः (सन्ति) (सेतवे) तुमर्थे सेसेनसे०। पा० ३।४।९। इति षिञ् बन्धने−तवेन्। बन्धुं दुष्टान् ॥
इस भाष्य को एडिट करें