Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 2
    सूक्त - अथर्वा देवता - कर्म छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मविद्या सूक्त

    अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे। वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥

    स्वर सहित पद पाठ

    अना॑प्ता: । ये । व॒: । प्र॒थ॒मा: । यानि॑ । कर्मा॑णि। च॒क्रि॒रे । वी॒रान् । न॒: । अत्र॑ । मा । द॒भ॒न् । तत् । व॒: । ए॒तत् । पु॒र: । द॒धे॒ ॥६.२॥


    स्वर रहित मन्त्र

    अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे। वीरान्नो अत्र मा दभन्तद्व एतत्पुरो दधे ॥

    स्वर रहित पद पाठ

    अनाप्ता: । ये । व: । प्रथमा: । यानि । कर्माणि। चक्रिरे । वीरान् । न: । अत्र । मा । दभन् । तत् । व: । एतत् । पुर: । दधे ॥६.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 2

    टिप्पणीः - २−अयं मन्त्रः पूर्वं व्याख्यातः−अ० ४।७।७। (अनाप्ताः) अनुत्तमाः। अतिशयेनाप्ताः (ये) पुरुषाः (वः) युष्मभ्यम् (प्रथमाः) प्रधानाः (यानि) यज−ड। यजनीयानि पूज्यानि (कर्माणि) आचरणानि (चक्रिरे) कृतवन्तः (वीरान्) शूरान् (नः) अस्मान् (अत्र) अस्मिन् संसारे (मा दभन्) मा हिंसन्तु ते शत्रवः (तत्) तस्मात् (वः) युष्माकम् (एतत्) क्रियमाणं कर्म (पुरः) पुरस्तात् (दधे) धारयामि ॥

    इस भाष्य को एडिट करें
    Top