Loading...
अथर्ववेद > काण्ड 5 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 4
    सूक्त - अथर्वा देवता - सरस्वती छन्दः - पथ्यापङ्क्तिः सूक्तम् - अरातिनाशन सूक्त

    सर॑स्वती॒मनु॑मतिं॒ भगं॒ यन्तो॑ हवामहे। वाचं जु॒ष्टां मधु॑मतीमवादिषं दे॒वानां॑ दे॒वहू॑तिषु ॥

    स्वर सहित पद पाठ

    सर॑स्वतीम् । अनु॑ऽमतिम् । भग॑म् । यन्त॑: । ह॒वा॒म॒हे॒ । वाच॑म् । जु॒ष्टाम् । मधु॑ऽमतीम् । अ॒वा॒दि॒ष॒म् । दे॒वाना॑म् । दे॒वऽहू॑तिषु ॥७.४॥


    स्वर रहित मन्त्र

    सरस्वतीमनुमतिं भगं यन्तो हवामहे। वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥

    स्वर रहित पद पाठ

    सरस्वतीम् । अनुऽमतिम् । भगम् । यन्त: । हवामहे । वाचम् । जुष्टाम् । मधुऽमतीम् । अवादिषम् । देवानाम् । देवऽहूतिषु ॥७.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 4

    टिप्पणीः - ४−(सरस्वतीम्) विज्ञानवतीं विद्याम् (अनुमतिम्) अनुकूलां बुद्धिम् (भगम्) सेवनीयमैश्वर्यम् (यन्तः) गच्छन्तः। उद्योगिनो वयम् (हवामहे) आह्वयामः (वाचम्) इमां वाणीम् (जुष्टाम्) प्रीताम् (मधुमतीम्) माधुर्योपेताम् (अवादिषम्) वद व्यक्तायां वाचि−लुङ्। उच्चारितवानस्मि (देवानाम्) महात्मनाम् (देवहूतिषु) दिव्यगुणानामाह्वानेषु प्राप्तिषु ॥

    इस भाष्य को एडिट करें
    Top