Loading...
अथर्ववेद > काण्ड 5 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 10
    सूक्त - अथर्वा देवता - अरातिसमूहः छन्दः - अनुष्टुप् सूक्तम् - अरातिनाशन सूक्त

    हिर॑ण्यवर्णा सु॒भगा॒ हिर॑ण्यकशिपुर्म॒ही। तस्यै॒ हिर॑ण्यद्राप॒येऽरा॑त्या अकरं॒ नमः॑ ॥

    स्वर सहित पद पाठ

    हिर॑ण्यऽवर्णा । सु॒ऽभगा॑ । हिर॑ण्यऽकशिपु: । म॒ही । तस्यै॑ । हिर॑ण्यऽद्रापये । अरा॑त्यै । अ॒क॒र॒म् । नम॑: ॥७.१०॥


    स्वर रहित मन्त्र

    हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही। तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥

    स्वर रहित पद पाठ

    हिरण्यऽवर्णा । सुऽभगा । हिरण्यऽकशिपु: । मही । तस्यै । हिरण्यऽद्रापये । अरात्यै । अकरम् । नम: ॥७.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 10

    टिप्पणीः - १०−(हिरण्यवर्णा) सुवर्णरूपा (सुभगा) बह्वैश्वर्ययुक्ता (हिरण्यकशिपुः) कश शब्दे हिंसायां च−कु। निपातनात् साधुः। कशिपुर्वस्त्रम्। सुवर्णवस्त्रा (मही) बलवती (तस्यै) (हिरण्यद्रापये) द्रा कुत्सायां गतौ−क्विप्। भुजेः किच्च। उ० ४।१४२। इति द्रा+पा रक्षणे−इ, स च कित्। हिरण्येन सुवर्णेन कुत्साया गतेः रक्षिकायै (अरात्यै) अदानशक्तये निर्धनतायै (अकरम्) अहं कृतवानस्मि (नमः) नमस्कारम् ॥

    इस भाष्य को एडिट करें
    Top