अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 6
सूक्त - अथर्वा
देवता - अरातिसमूहः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - अरातिनाशन सूक्त
मा व॒निं मा वाचं॑ नो॒ वीर्त्सी॑रु॒भावि॑न्द्रा॒ग्नी आ भ॑रतां नो॒ वसू॑नि। सर्वे॑ नो अ॒द्य दित्स॒न्तोऽरा॑तिं॒ प्रति॑ हर्यत ॥
स्वर सहित पद पाठमा । व॒निम् । मा । वाच॑म् । न॒: । वि । ई॒र्त्सी॒: । उ॒भौ । इ॒न्द्रा॒ग्नी इति॑ । आ । भ॒र॒ता॒म् । न॒: । वसू॑नि । सर्वे॑ । न॒: । अ॒द्य। दित्स॑न्त: । अरा॑तिम् । प्रति॑ । ह॒र्य॒त॒ ॥७.६॥
स्वर रहित मन्त्र
मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि। सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥
स्वर रहित पद पाठमा । वनिम् । मा । वाचम् । न: । वि । ईर्त्सी: । उभौ । इन्द्राग्नी इति । आ । भरताम् । न: । वसूनि । सर्वे । न: । अद्य। दित्सन्त: । अरातिम् । प्रति । हर्यत ॥७.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(मा) निषेधे (वनिम्) भक्तिम् (वाचम्) वाणीम् (नः) अस्माकम् (वि) विरुद्धम् (वि मा ईर्त्सीः) म० १। ऋधु वृद्धौ सनि माङि लुङि रूपम्। विगतसिद्धिं निष्फलां मा कुरु (उभौ) द्वौ (इन्द्राग्नी) इन्द्रो जीवात्मा, अग्निः पराक्रमश्च (आ) आनीय (भरताम्) पोषयताम् (नः) अस्मभ्यम् (वसूनि) धनानि (सर्वे) (नः) अस्मभ्यम् (अद्य) वर्तमाने दिने (दित्सन्तः) दातुमिच्छन्तः (अरातिम्) अदानशक्तिम् (प्रति) प्रातिकूल्येन (हर्यत) हर्य गतिकान्त्योः। गच्छत ॥
इस भाष्य को एडिट करें