अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 1
वै॑कङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह। अग्ने॒ ताँ इ॒ह मा॑दय॒ सर्व॒ आ य॑न्तु मे॒ हव॑म् ॥
स्वर सहित पद पाठवै॒क॒ङ्क॒तेन॑ । इ॒ध्मेन॑ । दे॒वेभ्य॑: । आज्य॑म् । व॒ह॒ । अग्ने॑ । तान् । इ॒ह । मा॒द॒य॒ । सर्वे॑ । आ । य॒न्तु॒ । मे॒ । हव॑म् ॥८.१॥
स्वर रहित मन्त्र
वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह। अग्ने ताँ इह मादय सर्व आ यन्तु मे हवम् ॥
स्वर रहित पद पाठवैकङ्कतेन । इध्मेन । देवेभ्य: । आज्यम् । वह । अग्ने । तान् । इह । मादय । सर्वे । आ । यन्तु । मे । हवम् ॥८.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(वैकङ्कतेन) भृमृदृशि०। उ० ३।१०१। इति विपूर्वात् ककि गतौ−अतच्, ततः अण्। विज्ञानेन सम्बन्धिना। वैज्ञानिकेन (इध्मेन) इषियुधीन्धि०। उ० १।१४५। इति ञिइन्धी दीप्तौ−मक्। प्रकाशेन (देवेभ्यः) व्यवहारकुशलेभ्यः (आज्यम्) आङ् पूर्वादञ्जेः संज्ञायामुपसंख्यानम्। वा० पा० ३।१।१०९। इति आङ्+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−क्यप्। अनिदितां हल०। पा० ६।१।२४। इति नस्य लोपः। व्यक्तीकरणीयं प्रकाशनीयम्। गम्यं प्राप्यं वस्तु (वह) प्रापय (अग्ने) हे अग्निवत्तेजस्विन् राजन् (तान्) देवान् (इह) अस्मिन् देशे (मादय) हर्षय (सर्वे) देवाः (आ यन्तु) आगच्छन्तु (मे) मम (हवम्) आह्वानम् ॥
इस भाष्य को एडिट करें