अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 5
यम॒मी पु॑रोदधि॒रे ब्र॒ह्माण॒मप॑भूतये। इन्द्र॒ स ते॑ अधस्प॒दं तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥
स्वर सहित पद पाठयम् । अ॒मी इति॑ । पु॒र॒:ऽद॒धि॒रे । ब्र॒ह्माण॑म् । अप॑ऽभूतये ।इन्द्र॑ । स: । ते॒ । अ॒ध॒:ऽप॒दम् । तम् । प्रति॑ । अ॒स्या॒मि॒ । मृ॒त्यवे॑॥।८.५॥
स्वर रहित मन्त्र
यममी पुरोदधिरे ब्रह्माणमपभूतये। इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥
स्वर रहित पद पाठयम् । अमी इति । पुर:ऽदधिरे । ब्रह्माणम् । अपऽभूतये ।इन्द्र । स: । ते । अध:ऽपदम् । तम् । प्रति । अस्यामि । मृत्यवे॥।८.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(यम्) (अमी) शत्रवः (पुरोदधिरे) अग्रे धृतवन्तः। प्रधानपदे स्थापितवन्तः (ब्रह्माणम्) ब्रह्मा परिवृढः श्रुततो ब्रह्म परिवृढं सर्वतः−निरु० १।८। वृद्धिशीलं विद्वांसम् (अपभूतये) अस्माकं पराजयाय (इन्द्र) हे परमैश्वर्यवन् राजन् (सः) सोऽहम् (ते) तव (अधस्पदम्) अ० २।७।२। अधोभागे पादतले (तम्) शत्रुम् (प्रति) प्रतिकूलतया (अस्यामि) प्रक्षिपामि (मृत्यवे) मरणाय ॥
इस भाष्य को एडिट करें