अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
स्वर सहित पद पाठयदि॑। प्र॒ऽई॒यु: । दे॒व॒ऽपु॒रा: । ब्रह्म॑ । वर्मा॑णि । च॒क्रि॒रे । त॒नू॒ऽपान॑म् । प॒रि॒ऽपान॑म् । कृ॒ण्वा॒ना: । यत् । उ॒प॒ऽऊ॒चि॒रे । सर्व॑म् । तत् । अ॒र॒सम् । कृ॒धि॒॥८.६॥
स्वर रहित मन्त्र
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे। तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥
स्वर रहित पद पाठयदि। प्रऽईयु: । देवऽपुरा: । ब्रह्म । वर्माणि । चक्रिरे । तनूऽपानम् । परिऽपानम् । कृण्वाना: । यत् । उपऽऊचिरे । सर्वम् । तत् । अरसम् । कृधि॥८.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यदि) सम्भावनायाम् (प्रेयुः) इण्−लिट्। प्रजग्मुः (देवपुराः) ऋक्पूरब्धूःपथामानक्षे। पा० ५।४।७४। इति देव+पुर्−अ प्रत्ययः, टाप्। राजनगरीः (ब्रह्म) अस्माकं धनम्−निघ० २।१०। (वर्माणि) स्वकीयानि रक्षासाधनानि (चक्रिरे) आत्मसात्कृतवन्तः (तनूपानम्) अस्माकं शरीरं रक्षासाधनम् (परिपाणम्) स्वकीयं परित्राणम् (कृण्वानाः) आत्मसात्कृतवन्तः (यत्) वचनम् (उपोचिरे) उप हीने। वच−लिट्। कुत्सितमुक्तवन्तः (सर्वम्) सकलम् (तत्) कर्म (अरसम्) असमर्थम् (कृधि) कुरु ॥
इस भाष्य को एडिट करें