अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 7
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - द्व्युष्णिग्गर्भा पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्। त्वं तानि॑न्द्र वृत्रहन्प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहा॒ञ्जन॑म् ॥
स्वर सहित पद पाठयान् । अ॒सौ । अ॒ति॒ऽस॒रान् । च॒कार॑ । कृ॒णव॑त् । च॒ । यान् । त्वम् । तान् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । प्र॒तीच॑: । पुन॑: । आ । कृ॒धि॒ । यथा॑ । अ॒मुम् । तृ॒णहा॑न् । जन॑म् ॥८.७॥
स्वर रहित मन्त्र
यानसावतिसरांश्चकार कृणवच्च यान्। त्वं तानिन्द्र वृत्रहन्प्रतीचः पुनरा कृधि यथामुं तृणहाञ्जनम् ॥
स्वर रहित पद पाठयान् । असौ । अतिऽसरान् । चकार । कृणवत् । च । यान् । त्वम् । तान् । इन्द्र । वृत्रऽहन् । प्रतीच: । पुन: । आ । कृधि । यथा । अमुम् । तृणहान् । जनम् ॥८.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(यान्) (असौ) शत्रुः (अतिसरान्) म० २। प्रयत्नान् (चकार) कृतवान् (कृणवत्) कुर्यात् (च) (यान्) (त्वम्) (तान्) अतिसरान् (इन्द्र) परमैश्वर्यवन् राजन् (वृत्रहन्) अन्धकारनाशक (प्रतीचः) प्रतिकूलमुखान् अधोमुखान् (पुनः) अवधारणे (आ) ईषदर्थे (आकृधि) तुच्छान् कुरु (यथा) येन प्रकारेण (अमुम्) (तृणहान्) तृह हिंसायाम्−लेट्। हिंस्युः (जनम्) शत्रुसमूहम् ॥
इस भाष्य को एडिट करें