अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 9
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - षट्पदा द्व्यनुष्टुब्गर्भा जगती
सूक्तम् - शत्रुनाशन सूक्त
अत्रै॑नानिन्द्र वृत्रहन्नु॒ग्रो मर्म॑णि विध्य। अत्रै॒वैना॑न॒भि ति॒ष्ठेन्द्र॑ मे॒द्यहं तव॑। अनु॑ त्वे॒न्द्रा र॑भामहे॒ स्याम॑ सुम॒तौ तव॑ ॥
स्वर सहित पद पाठअत्र॑ । ए॒ना॒न् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । उ॒ग्र: । मर्म॑णि । वि॒ध्य॒ । अत्र॑ । ए॒व । ए॒ना॒न् । अ॒भि । ति॒ष्ठ॒ । इन्द्र॑ । मे॒दी । अ॒हम् । तव॑ । अनु॑ । त्वा॒ । इ॒न्द्र॒ । आ । र॒भा॒म॒हे॒ । स्याम॑ । सु॒ऽम॒तौ । तव॑ ॥८.९॥
स्वर रहित मन्त्र
अत्रैनानिन्द्र वृत्रहन्नुग्रो मर्मणि विध्य। अत्रैवैनानभि तिष्ठेन्द्र मेद्यहं तव। अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥
स्वर रहित पद पाठअत्र । एनान् । इन्द्र । वृत्रऽहन् । उग्र: । मर्मणि । विध्य । अत्र । एव । एनान् । अभि । तिष्ठ । इन्द्र । मेदी । अहम् । तव । अनु । त्वा । इन्द्र । आ । रभामहे । स्याम । सुऽमतौ । तव ॥८.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(अत्र) अस्मिन् स्थाने (एनान्) शत्रून् (इन्द्र) परमैश्वर्यवन् राजन् ! (वृत्रहन्) अन्धकारनाशक (उग्रः) तेजस्वी (मर्मणि) मृङ् प्राणत्यागे-मनिन्। सन्धिस्थाने। जीवस्थाने (विध्य) ताडय (अत्र) (एव) (एनान्) (अभि तिष्ठ) अभिभव। पराजय (इन्द्र) (मेदी) स्नेही (अहम्) प्रजागणः (तव) (अनु) अनुलक्ष्य (इन्द्र) (आरभामहे) रभ औत्सुक्ये। उत्सुका भवामः (स्याम) भवेम। निवासाम (सुमतौ) दयाबुद्धौ (तव) ॥
इस भाष्य को एडिट करें