Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 114/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - उन्मोचन सूक्त
यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृमा व॒यम्। आदि॑त्या॒स्तस्मा॑न्नो यू॒यमृ॒तस्य॒र्तेन॑ मुञ्चत ॥
स्वर सहित पद पाठयत् । दे॒वा॒: । दे॒व॒ऽहेड॑नम् ।देवा॑स: । च॒कृ॒म: । व॒यम् । आदि॑त्या: । तस्मा॑त् । न॒: । यू॒यम् । ऋ॒तस्य॑ । ऋ॒तेन॑ । मु॒ञ्च॒त॒ ॥११४.१॥
स्वर रहित मन्त्र
यद्देवा देवहेडनं देवासश्चकृमा वयम्। आदित्यास्तस्मान्नो यूयमृतस्यर्तेन मुञ्चत ॥
स्वर रहित पद पाठयत् । देवा: । देवऽहेडनम् ।देवास: । चकृम: । वयम् । आदित्या: । तस्मात् । न: । यूयम् । ऋतस्य । ऋतेन । मुञ्चत ॥११४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 114; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यत्) (देवाः) हे विद्वांसः (देवहेडनम्) हेडृ अनादरे−ल्युट्। विदुषामनादरम् (देवासः) देवाः क्रीडकाः (चकृम) कृतवन्तः (वयम्) मनुष्याः (आदित्याः) अ० १।९।१। सूर्यवत्तेजस्विनः (तस्मात्) पापात् (यूयम्) (ऋतस्य) धर्मस्य (ऋतेन) सत्यव्यवहारेण ॥
इस भाष्य को एडिट करें