Loading...
अथर्ववेद > काण्ड 6 > सूक्त 114

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 114/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - उन्मोचन सूक्त

    ऋ॒तस्य॒र्तेना॑दित्या॒ यज॑त्रा मु॒ञ्चते॒ह नः॑। य॒ज्ञं यद्य॑ज्ञवाहसः शिक्षन्तो॒ नोप॑शेकि॒म ॥

    स्वर सहित पद पाठ

    ऋ॒तस्‍य॑ । ऋ॒तेन॑ । आ॒दि॒त्या॒: । यज॑त्रा: । मु॒ञ्चत॑ । इ॒ह । न॒: । य॒ज्ञम् । यत् । य॒ज्ञ॒ऽवा॒ह॒स॒: । शिक्ष॑न्त: । न । उ॒प॒ऽशे॒कि॒म ॥११४.२॥


    स्वर रहित मन्त्र

    ऋतस्यर्तेनादित्या यजत्रा मुञ्चतेह नः। यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥

    स्वर रहित पद पाठ

    ऋतस्‍य । ऋतेन । आदित्या: । यजत्रा: । मुञ्चत । इह । न: । यज्ञम् । यत् । यज्ञऽवाहस: । शिक्षन्त: । न । उपऽशेकिम ॥११४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 114; मन्त्र » 2

    टिप्पणीः - २−(ऋतस्य) धर्मस्य (ऋतेन) सत्यव्यवहारेण (आदित्याः) हे विद्यया प्रकाशमानाः (यजत्राः) अमिनक्षियजि०। उ० ३।१०५। इति यजेरत्रन्। यष्टव्याः। पूजनीयाः संगमनीया (मुञ्चत) वियोजयत (इह) अस्मिन् पापकर्मणि (नः) अस्मान् (यज्ञम्) देवपूजनम् (यत्) यस्मात्कारणात् (यज्ञवाहसः) वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। इति वहेरसुन्। हे यज्ञस्य परमेश्वरोपासनस्य शिल्पज्ञानस्य वा प्रापकाः (शिक्षन्तः) शक्लृ शक्तौ सनि। सनि मीमाघुरभलभशक०। पा० ७।४।५४। इत्यचः स्थान इस्। अत्र लोपोऽभ्यासस्य। पा० ७।४।५८। इत्यभ्यासलोपः। शक्तुं निष्पादयितुमिच्छन्तः (न) निषेधे (उपशेकिम) शक्लृ−लिट्। कर्तुं शक्ता बभूविम ॥

    इस भाष्य को एडिट करें
    Top