Loading...
अथर्ववेद > काण्ड 6 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 3
    सूक्त - अथर्वा देवता - स्मरः छन्दः - अनुष्टुप् सूक्तम् - स्मर सूक्त

    यथा॒ मम॒ स्मरा॑द॒सौ नामुष्या॒हं क॒दा च॒न। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥

    स्वर सहित पद पाठ

    यथा॑ । मम॑ । स्मरा॑त् । अ॒सौ । न । अ॒मुष्य॑ । अ॒हम् । क॒दा । च॒न । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.३॥


    स्वर रहित मन्त्र

    यथा मम स्मरादसौ नामुष्याहं कदा चन। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥

    स्वर रहित पद पाठ

    यथा । मम । स्मरात् । असौ । न । अमुष्य । अहम् । कदा । चन । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 3

    टिप्पणीः - ३−(यथा) येन प्रकारेण (मम) (स्मरात्) स्मरेत् (असौ) स्मरः (न) निषेधे (अमुष्य) स्मरस्य (अहम्) (कदा चन) कदापि [स्मरामि=स्मृणोमि] इत्यध्याहारः। स्मृ प्रीतिचलनयोः, स्वादिः। चलनं करोमि। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top