Loading...
अथर्ववेद > काण्ड 6 > सूक्त 134

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 1
    सूक्त - शुक्र देवता - वज्रः छन्दः - परानुष्टुप्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अ॒यं वज्र॑स्तर्पयतामृ॒तस्या॑वास्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम्। शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । वज्र॑: । त॒र्प॒य॒ता॒म् । ऋ॒तस्य॑ । अव॑ । अ॒स्य॒ । रा॒ष्ट्रम् । अप॑ । ह॒न्तु॒ । जी॒वि॒तम् । शृ॒णातु॑ । ग्री॒वा: । प्र । शृ॒णा॒तु॒ । उ॒ष्णिहा॑ । वृ॒त्रस्य॑ऽइव । शची॒ऽपति॑: ॥१३४.१॥


    स्वर रहित मन्त्र

    अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम्। शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥

    स्वर रहित पद पाठ

    अयम् । वज्र: । तर्पयताम् । ऋतस्य । अव । अस्य । राष्ट्रम् । अप । हन्तु । जीवितम् । शृणातु । ग्रीवा: । प्र । शृणातु । उष्णिहा । वृत्रस्यऽइव । शचीऽपति: ॥१३४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 1

    टिप्पणीः - १−(अयम्) (वज्रः) दण्डः। शासनम् (तर्पयताम्) तृप्तिं कुर्यात् (ऋतस्य) सत्यस्य धर्मस्य (अव) अवहत्य (अस्य) शत्रोः (राष्ट्रम्) राज्यम् (अपहन्तु) विनाशयतु (जीवितम्) जीवनम् (शृणातु) हिनस्तु (ग्रीवाः) अ० २।३३।२। कन्धरावयवान् (प्रशृणातु) प्रच्छिनत्तु (उष्णिहा) अ० २।३३।२। बहुवचनस्यैकवचनम्। उत्स्नाता धमनीः (वृत्रस्य) शत्रोः (इव) यथा (शचीपतिः) अ० ३।१०।१२। कर्मणां प्रज्ञानां वा पालकः पुरुषः ॥

    इस भाष्य को एडिट करें
    Top