Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 3
यो जि॒नाति॒ तमन्वि॑च्छ॒ यो जि॒नाति॒ तमिज्ज॑हि। जि॑न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ॥
स्वर सहित पद पाठय: । जि॒नाति॑ । तम् । अनु॑ । इ॒च्छ॒ । य: । जि॒नाति॑ । तम् । इत् । ज॒हि॒ । जि॒न॒त: । व॒ज्र॒ । त्वम् । सी॒मन्त॑म् । अ॒न्वञ्च॑म् । अनु॑ । पा॒त॒य॒ ॥१३४.३॥
स्वर रहित मन्त्र
यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि। जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥
स्वर रहित पद पाठय: । जिनाति । तम् । अनु । इच्छ । य: । जिनाति । तम् । इत् । जहि । जिनत: । वज्र । त्वम् । सीमन्तम् । अन्वञ्चम् । अनु । पातय ॥१३४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यः) दुराचारी (जिनाति) ज्या वयोहानौ। ग्रहिज्या०। पा० ६।१।१६। इति संप्रसारणम्। हानिं करोति (तम्) (अन्विच्छ) अन्वेषणेन प्राप्नुहि (इत्) एव (जहि) मारय (जिनतः) हानिं कुर्वतः पुरुषस्य (वज्र) अर्शआद्यच्। वज्रधारिन्, (सीमन्तः) शरीरस्य सीम्नोऽन्तः। शकन्ध्वादित्वात् पररूपम्। शिरः (अन्वञ्चम्) अनु+अञ्चु गतौ−क्विन्। अनु पश्चात् अनुक्रमेण प्राप्तम् (अनु) पश्चात् (पातय) अधो गमय ॥
इस भाष्य को एडिट करें