Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 2
सूक्त - शुक्र
देवता - वज्रः
छन्दः - भुरिक्त्रिपदा गायत्री
सूक्तम् - शत्रुनाशन सूक्त
अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत्सृ॑पत्। वज्रे॒णाव॑हतः शयाम् ॥
स्वर सहित पद पाठअध॑र:ऽअधर: । उत्त॑रेभ्य: । गू॒ढ: । पृ॒थि॒व्या: । मा । उत् । सृ॒प॒त् । वज्रे॑ण । अव॑ऽहत: । श॒या॒म् ॥१३४.२॥
स्वर रहित मन्त्र
अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। वज्रेणावहतः शयाम् ॥
स्वर रहित पद पाठअधर:ऽअधर: । उत्तरेभ्य: । गूढ: । पृथिव्या: । मा । उत् । सृपत् । वज्रेण । अवऽहत: । शयाम् ॥१३४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अधरोऽधरः) अतिशयेनाधरः। निकृष्टतरः (उत्तरेभ्यः) उत्कृष्टतरेभ्यः (गूढः) संवृतः (पृथिव्याः) भूमेः सकाशात् (मा) निषेधे (उत्सृपत्) उत्सर्पतु। उत्तिष्ठतु (वज्रेण) (अवहतः) चूर्णीकृतः (शयाम्) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। तलोपः। शेताम्। म्रियतामित्यर्थः ॥
इस भाष्य को एडिट करें