Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 3
सूक्त - शौनक्
देवता - चन्द्रमाः
छन्दः - बृहतीगर्भा ककुम्मत्यनुष्टुप्
सूक्तम् - अक्षिरोगभेषज सूक्त
तौवि॑लि॒केऽवे॑ल॒यावा॒यमै॑ल॒ब ऐ॑लयीत्। ब॒भ्रुश्च॑ ब॒भ्रुक॑र्ण॒श्चापे॑हि॒ निरा॑ल ॥
स्वर सहित पद पाठतौवि॑लिके । अव॑ । ई॒ल॒य॒ । अव॑ । अ॒यम् । ऐ॒ल॒ब: । ऐ॒ल॒यी॒त् । ब॒भ्रु: । च॒ । ब॒भ्रुऽक॑र्ण: । च॒ । अप॑ । इ॒हि॒ । नि: । आ॒ल॒ ॥१६.३॥
स्वर रहित मन्त्र
तौविलिकेऽवेलयावायमैलब ऐलयीत्। बभ्रुश्च बभ्रुकर्णश्चापेहि निराल ॥
स्वर रहित पद पाठतौविलिके । अव । ईलय । अव । अयम् । ऐलब: । ऐलयीत् । बभ्रु: । च । बभ्रुऽकर्ण: । च । अप । इहि । नि: । आल ॥१६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(तौविलिके) गुपादिभ्यः कित्। उ० १।५६। इति तु गतिवृद्धिहिंसासु−इलच्। तेन दीव्यति खनति जयति जितम्। पा० ४।४।२। इति जयत्यर्थे ठक्, अजादित्वाट् टाप्। तुविलेन वृद्ध्या जयशीले व्यवहारे (अव) अवश्यम् (ईलय) ईर क्षेपे, रस्य लः। अस्मान् प्रेरय (अव) निश्चयेन (अयम्) सर्वव्यापकः (ऐलवः) इला पृथिवी−निघ० १।१। इला−अण्+वा गतिगन्धनयोः−क। इलायाः पृथिव्या इमे पदार्थास्तान् वाति गच्छति स परमेश्वरः (ऐलयीत्) ईल प्रेरणे−णिचि लुङ्, मध्यमपुरुषस्य प्रथमः। नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः। पा० ३।१।५१। इति च्लेश्चङो निषेधः। ऐलयीः। त्वं प्रेरितवानसि ऋषीन् (बभ्रुः) कुर्भ्रश्च। उ० १।२२। इति भृञ्−कु। पोषकः (च च) समुच्चये (बभ्रुकर्णः) कॄवृजॄ०। उ० ३।१०। कॄ विक्षेपे−न। बभ्रूणां पोषकाणां कर्णः अरित्रमिव पारकः (अप) आनन्दे (इहि) गच्छ (निः) निश्चयेन (आल) अल भूषणपर्याप्तिशक्तिवारणेषु−घञ्। हे शक्त, समर्थ ॥
इस भाष्य को एडिट करें