Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 2
सूक्त - शौनक्
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - अक्षिरोगभेषज सूक्त
वि॒हह्लो॒ नाम॑ ते पि॒ता म॒दाव॑ती॒ नाम॑ ते मा॒ता। स हि॑न॒ त्वम॑सि॒ यस्त्वमा॒त्मान॒माव॑यः ॥
स्वर सहित पद पाठवि॒ऽहह्ल॑: । नाम॑ । ते॒ । पि॒ता । म॒दऽव॑ती । नाम॑ । ते॒ । मा॒ता । स: । हि॒न॒ । त्वम् । अ॒सि॒ । य: । त्वम्। आ॒त्मान॑म् । आव॑य: ॥१६.२॥
स्वर रहित मन्त्र
विहह्लो नाम ते पिता मदावती नाम ते माता। स हिन त्वमसि यस्त्वमात्मानमावयः ॥
स्वर रहित पद पाठविऽहह्ल: । नाम । ते । पिता । मदऽवती । नाम । ते । माता । स: । हिन । त्वम् । असि । य: । त्वम्। आत्मानम् । आवय: ॥१६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(विहह्लः) वि+ह्वल चलने−अच्। छान्दसं रूपम्। विशेषकम्पकः (नाम) प्रसिद्धौ (ते) तव (पिता) पालको गुणः (मदावती) सांहितिको दीर्घः। हर्षवती (माता) अ० ५।५।१। निर्माणशक्तिः (सः) प्रसिद्धः (हिन) नकारश्छान्दसः। हि। खलु (त्वम्) (असि) (यः) (आत्मानम्) आत्मबलम् (आवयः) अव रक्षणे−लङ्, चुरादित्वं छान्दसम्। आवः। रक्षितवानसि ॥
इस भाष्य को एडिट करें