Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 76/ मन्त्र 2
सूक्त - कबन्ध
देवता - सान्तपनाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - आयुष्य सूक्त
अ॒ग्नेः सां॑तप॒नस्या॒हमायु॑षे प॒दमा र॑भे। अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥
स्वर सहित पद पाठअ॒ग्ने: । सा॒म्ऽत॒प॒नस्य॑ । अ॒हम् । आयु॑षे । प॒दम् । आ । र॒भे॒ । अ॒ध्दा॒ति: । यस्य॑ । पश्य॑ति । धू॒मम् । उ॒त्ऽयन्त॑म् । आ॒स्य॒त: ॥७६.२॥
स्वर रहित मन्त्र
अग्नेः सांतपनस्याहमायुषे पदमा रभे। अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥
स्वर रहित पद पाठअग्ने: । साम्ऽतपनस्य । अहम् । आयुषे । पदम् । आ । रभे । अध्दाति: । यस्य । पश्यति । धूमम् । उत्ऽयन्तम् । आस्यत: ॥७६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 76; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अग्नेः) सूर्यविद्युदादिरूपस्य (सांतपनस्य) संतपन−अण्। सम्यक् तपनयुक्तस्य (अहम्) शिल्पी (आयुषे) जीवनवर्धनाय (पदम्) प्रापणीयं गुणम् (आ रभे) उपक्रमे (अद्धातिः) अद्धा−अतिः। अत सातत्यगमने−क्विप्+धाञ् धारणे−क्विप्। अतं सततं गमनं ज्ञानं दधातीति अद्धा सत्यम्+अत सातत्यगमने−इन्। सत्यमतति गच्छति जानातीति। सत्यज्ञाता। मेधावी−निघ० ३।१५। (यस्य) अग्नेः (पश्यति) साक्षात्करोति (धूमम्) इषियुधीन्धि०। उ० १।१४५। इति धूञ् कम्पने−मक्। अग्निनार्द्रकाष्ठजातं पदार्थम् (उद्यन्तम्) उद्गच्छन्तम् (आस्यतः) अग्निमुखात् ॥
इस भाष्य को एडिट करें