Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 76/ मन्त्र 3
सूक्त - कबन्ध
देवता - सान्तपनाग्निः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - आयुष्य सूक्त
यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम्। नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ॥
स्वर सहित पद पाठय: । अ॒स्य॒ । स॒म्ऽइध॑म् । वेद॑ । क्ष॒त्रिये॑ण । स॒म्ऽआहि॑ताम् । न । अ॒भि॒ऽह्वा॒रे । प॒दम् । नि । द॒धा॒ति॒ । स: । मृ॒त्यवे॑ ॥७६.३॥
स्वर रहित मन्त्र
यो अस्य समिधं वेद क्षत्रियेण समाहिताम्। नाभिह्वारे पदं नि दधाति स मृत्यवे ॥
स्वर रहित पद पाठय: । अस्य । सम्ऽइधम् । वेद । क्षत्रियेण । सम्ऽआहिताम् । न । अभिऽह्वारे । पदम् । नि । दधाति । स: । मृत्यवे ॥७६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 76; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यः) विद्वान् (अस्य) अग्नेः (समिधम्) प्रकाशक्रियाम् (वेद) वेत्ति (क्षत्रियेण) क्षत्रे राष्ट्रे साधुः। क्षत्राद् घः। पा० ४।१।१३८। इति क्षत्र−घ, जातौ। राज्ञा (समाहिताम्) सम्+आधा-क्त। सम्यक् निष्पादिताम् (न) निषेधे (अभिह्वारे) ह्वृ कौटिल्ये−घञ्। अतिकुटिलस्थाने। भयास्पदे (पदम्) (निदधाति) निक्षिपति (सः) पुरुषः (मृत्यवे) मृत्युं प्राप्तुम् ॥
इस भाष्य को एडिट करें