Loading...
अथर्ववेद > काण्ड 7 > सूक्त 115

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 115/ मन्त्र 2
    सूक्त - अथर्वाङ्गिराः देवता - सविता, जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - पापलक्षणनाशन सूक्त

    या मा॑ ल॒क्ष्मीः प॑तया॒लूरजु॑ष्टाभिच॒स्कन्द॒ वन्द॑नेव वृ॒क्षम्। अ॒न्यत्रा॒स्मत्स॑वित॒स्तामि॒तो धा॒ हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ॥

    स्वर सहित पद पाठ

    या । मा॒ । ल॒क्ष्मी: । प॒त॒या॒लू: । अजु॑ष्टा: । अ॒भि॒ऽच॒स्कन्द॑ । वन्द॑नाऽइव । वृ॒क्षम् । अ॒न्यत्र॑ । अ॒स्मत् । स॒वि॒त॒: । ताम् । इ॒त: । धा॒: । हिर॑ण्यऽहस्त: । वसु॑ । न॒: । ररा॑ण: ॥१२०.२॥


    स्वर रहित मन्त्र

    या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम्। अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥

    स्वर रहित पद पाठ

    या । मा । लक्ष्मी: । पतयालू: । अजुष्टा: । अभिऽचस्कन्द । वन्दनाऽइव । वृक्षम् । अन्यत्र । अस्मत् । सवित: । ताम् । इत: । धा: । हिरण्यऽहस्त: । वसु । न: । रराण: ॥१२०.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 115; मन्त्र » 2

    टिप्पणीः - २−(या) (मा) माम् (लक्ष्मीः) म० १। लक्षणम् (पतयालूः) स्पृहिगृहिपतिदयि०। पा० ३।२।१५८। पत गतौ, चुरादिः, अदन्तः-आलुच्। ऊङुतः। पा० ४।१।६६। ऊङ् स्त्रियाम्। पातयित्री। दुर्गतिकारिणी (अजुष्टा) अप्रिया (अभिचस्कन्द) स्कन्दिर् गतिशोषणयोः-लिट्। अभितः प्राप (वन्दना) सू० ११३ म० १ लता (इव) यथा (वृक्षम्) (अन्यत्र) अन्येषु दुष्टेषु (अस्मत्) अस्मत्तः धार्मिकेभ्यः (सवितः) हे परमैश्वर्यवन् परमात्मन् (ताम्) लक्ष्मीम्। लक्षणम् (इतः) अस्मात् स्थानात् (धाः) दध्याः (हिरण्यहस्तः) हिरण्यं तेजः सुवर्णं वा हस्ते वशे यस्य सः (वसु) धनम् (नः) अस्मभ्यम् (रराणः) अ० ५।२७।११। ददानः ॥

    इस भाष्य को एडिट करें
    Top