Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 115/ मन्त्र 4
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः
छन्दः - परोष्णिक्
सूक्तम् - ज्वरनाशन सूक्त
ए॒ता ए॑ना॒ व्याक॑रं खि॒ले गा विष्ठि॑ता इव। रम॑न्तां॒ पुण्या॑ ल॒क्ष्मीर्याः पा॒पीस्ता अ॑नीनशम् ॥
स्वर सहित पद पाठए॒ता: । ए॒ना॒: । वि॒ऽआक॑रम् । खि॒ले । गा: । विस्थि॑ता:ऽइव । रम॑न्ताम् । पुण्या॑: । ल॒क्ष्मी: । या: । पा॒पी: । ता: । अ॒नी॒न॒श॒म् ॥१२०.४॥
स्वर रहित मन्त्र
एता एना व्याकरं खिले गा विष्ठिता इव। रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥
स्वर रहित पद पाठएता: । एना: । विऽआकरम् । खिले । गा: । विस्थिता:ऽइव । रमन्ताम् । पुण्या: । लक्ष्मी: । या: । पापी: । ता: । अनीनशम् ॥१२०.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 115; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(एताः) पुण्याः (एनाः) पापीः (व्याकरम्) वि+आङ्+डुकृञ् करणे-लुङ्, कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। इति च्लेरङ्। ऋदृशोऽङि गुणः। पा० ७।४।१६। इति गुणः। व्याख्यातवानस्मि (खिले) खिल कणश आदाने-क। अकृष्टदेशे (गाः) धेनूः (विष्ठिताः) विविधस्थिताः (इव) यथा (रमन्ताम्) तिष्ठन्तु (पुण्याः) कल्याण्यः (लक्ष्मीः) लक्ष्म्यः। लक्षणानि (याः) (पापीः)-म० १। पापकारिण्यः। दुर्लक्षणानि (अनीनशम्) अ० १।२३।४। नाशितवानस्मि ॥
इस भाष्य को एडिट करें