Loading...
अथर्ववेद > काण्ड 7 > सूक्त 115

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 115/ मन्त्र 3
    सूक्त - अथर्वाङ्गिराः देवता - सविता, जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - पापलक्षणनाशन सूक्त

    एक॑शतं ल॒क्ष्म्यो॒ मर्त्य॑स्य सा॒कं त॒न्वा ज॒नुषोऽधि॑ जा॒ताः। तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ नि य॑च्छ ॥

    स्वर सहित पद पाठ

    एक॑ऽशतम् । ल॒क्ष्म्य᳡: । मर्त्य॑स्य । सा॒कम् । त॒न्वा᳡ । ज॒नुष॑: । अधि॑ । जा॒ता: । तासा॑म् । पापि॑ष्ठा: । नि: । इ॒त: । प्र । हि॒ण्म॒: । शि॒वा: । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । नि । य॒च्छ॒ ॥१२०.३॥


    स्वर रहित मन्त्र

    एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः। तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नि यच्छ ॥

    स्वर रहित पद पाठ

    एकऽशतम् । लक्ष्म्य: । मर्त्यस्य । साकम् । तन्वा । जनुष: । अधि । जाता: । तासाम् । पापिष्ठा: । नि: । इत: । प्र । हिण्म: । शिवा: । अस्मभ्यम् । जातऽवेद: । नि । यच्छ ॥१२०.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 115; मन्त्र » 3

    टिप्पणीः - ३−(एकशतम्) एकाधिकशतसंख्याकाः। अपरिमिता इत्यर्थः (लक्ष्म्यः) म० १। लक्षणानि (मर्त्यस्य) मनुष्यस्य (साकम्) सह (तन्वा) शरीरेण (जनुषः) अ० ४।१।२। जन्मनः सकाशात् (अधि) अधिकारे (जाताः) उत्पन्नाः (तासाम्) लक्ष्मीणां मध्ये (पापिष्ठाः) अतिशयेन पापीः (निः) निश्चयेन (इतः) अस्मात्स्थानात् (प्र हिण्मः) हि गतौ वृद्धौ च। प्रेरयामः। अपसारयामः (शिवाः) मङ्गलकारिणीर्लक्ष्मीः (अस्मभ्यम्) धर्मात्मभ्यः (जातवेदः) उत्पन्नानां पदार्थानां वेदितः (नि) नियमेन (यच्छ) दाण् दाने। देहि ॥

    इस भाष्य को एडिट करें
    Top