अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 3
ईडे॑ अ॒ग्निं स्वाव॑सुं॒ नमो॑भिरि॒ह प्र॑स॒क्तो वि च॑यत्कृ॒तं नः॑। रथै॑रिव॒ प्र भ॑रे वा॒जय॑द्भिः प्रदक्षि॒णं म॒रुतां॒ स्तोम॑मृध्याम् ॥
स्वर सहित पद पाठईडे॑ । अ॒ग्निम् । स्वऽव॑सुम् । नम॑:ऽभि: । इ॒ह । प्र॒ऽस॒क्त: । वि । च॒य॒त् । कृ॒तम् । न॒: । रथै॑:ऽइव । प्र । भ॒रे॒ । वा॒जय॑त्ऽभि: । प्र॒ऽद॒क्षि॒णम् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥५२.३॥
स्वर रहित मन्त्र
ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः। रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥
स्वर रहित पद पाठईडे । अग्निम् । स्वऽवसुम् । नम:ऽभि: । इह । प्रऽसक्त: । वि । चयत् । कृतम् । न: । रथै:ऽइव । प्र । भरे । वाजयत्ऽभि: । प्रऽदक्षिणम् । मरुताम् । स्तोमम् । ऋध्याम् ॥५२.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(ईडे) अन्विच्छामि। ईडिरध्येषणकर्मा पूजाकर्मा वा-निरु० ७।१५। (अग्निम्) विद्वांसं राजानम् (स्ववसुम्) स्वेभ्यो बन्धुभ्यो धनं यस्य तम् (नमोभिः) सत्कारैः (इह) अत्र (प्रसक्तः) षञ्ज सङ्गे-क्त। सन्तुष्टः (विचयत्) विचिनुयात्। विवेकेन प्राप्नुयात् (कृतम्) कर्म (नः) अस्माकम् (रथैः) (इव) यथा (प्र) प्रकर्षेण (भरे) धरामि (वाजयद्भिः) वाजशब्दात् करोत्यर्थे णिच्। वाजं वेगं कुर्वद्भिः (प्रदक्षिणम्) तिष्ठद्गुप्रभृतीनि च। पा० २।१।१७। इत्यव्ययीभावसमासः। प्रगतं दक्षिणमिति। दक्षिणावर्त्तेन पूज्यमुद्दिश्य भ्रमणम् (मरुताम्) शूराणां मध्ये-अ० १।२०।१। (स्तोमम्) स्तुतिम् (ऋध्याम्) अर्धयेयम्। वर्धयेयम् ॥
इस भाष्य को एडिट करें