अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 2
तु॒राणा॒मतु॑राणां वि॒शामव॑र्जुषीणाम्। स॒मैतु॑ वि॒श्वतो॒ भगो॑ अन्तर्ह॒स्तं कृ॒तं मम॑ ॥
स्वर सहित पद पाठतु॒राणा॑म् । अतु॑राणाम् । वि॒शाम् । अव॑र्जुषीणाम् । स॒म्ऽऐतु॑ । वि॒श्वत॑: । भग॑: । अ॒न्त॒:ऽह॒स्तम् । कृ॒तम् । मम॑ ॥५२.२॥
स्वर रहित मन्त्र
तुराणामतुराणां विशामवर्जुषीणाम्। समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥
स्वर रहित पद पाठतुराणाम् । अतुराणाम् । विशाम् । अवर्जुषीणाम् । सम्ऽऐतु । विश्वत: । भग: । अन्त:ऽहस्तम् । कृतम् । मम ॥५२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तुराणाम्) तुर त्वरणे-क। शीघ्रकारिणीनाम् (अतुराणाम्) अशीघ्रकारिणीनाम् (विशाम्) प्रजानाम् (अवर्जुषीणाम्) पॄनहिकलिभ्य उषच्। उ० ४।७५। नञ्+वृजी वर्जने-उषच्, ङीप्। शत्रूणामवर्जनशीलानाम् (समैतु) सम्यक् प्राप्नोतु (विश्वतः) सर्वतः (भगः) धनम् (अन्तर्हस्तम्) हस्तमध्ये गतम् (कृतम्) कर्म (मम) ॥
इस भाष्य को एडिट करें