अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 8
कृ॒तं मे॒ दक्षि॑णे॒ हस्ते॑ ज॒यो मे॑ स॒व्य आहि॑तः। गो॒जिद्भू॑यासमश्व॒जिद्ध॑नंज॒यो हि॑रण्य॒जित् ॥
स्वर सहित पद पाठकृ॒तम् । मे॒ । दक्षि॑णे । हस्ते॑ । ज॒य: । मे॒ । स॒व्ये । आऽहि॑त: । गो॒ऽजित् । भू॒या॒स॒म् । अ॒श्व॒ऽजित् । ध॒न॒म्ऽज॒य: । हि॒र॒ण्य॒ऽजित् ॥५२.८॥
स्वर रहित मन्त्र
कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः। गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित् ॥
स्वर रहित पद पाठकृतम् । मे । दक्षिणे । हस्ते । जय: । मे । सव्ये । आऽहित: । गोऽजित् । भूयासम् । अश्वऽजित् । धनम्ऽजय: । हिरण्यऽजित् ॥५२.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(कृतम्) विहितं कर्म (मे) मम (दक्षिणे) (हस्ते) पाणौ (जयः) उत्कर्षः (मे) (सव्ये) वामे (आहितः) स्थापितः (गोजित्) भूमिजेता (भूयासम्) (अश्वजित्) अश्वानां जेता (धनञ्जयः) अ० ३।१४।२। धनानां जेता (हिरण्यजित्) सुवर्णस्य जेता ॥
इस भाष्य को एडिट करें