अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 5
अजै॑षं त्वा॒ संलि॑खित॒मजै॑षमु॒त सं॒रुध॑म्। अविं॒ वृको॒ यथा॒ मथ॑दे॒वा म॑थ्नामि ते कृ॒तम् ॥
स्वर सहित पद पाठअजैषम् । त्वा । सम्ऽलिखितम् । अजैषम् । उत । सम्ऽरुधम् । अविम् । वृक:। यथा । मथत् । एव । मथ्नामि । ते । कृतम् ॥५२.५॥
स्वर रहित मन्त्र
अजैषं त्वा संलिखितमजैषमुत संरुधम्। अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥
स्वर रहित पद पाठअजैषम् । त्वा । सम्ऽलिखितम् । अजैषम् । उत । सम्ऽरुधम् । अविम् । वृक:। यथा । मथत् । एव । मथ्नामि । ते । कृतम् ॥५२.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अजैषम्) अहं जितवानस्मि (त्वा) त्वां शत्रुम् (संलिखितम्) राजकीयपुस्तकेषु सम्यग् लिखितम् (अजैषम्) (उत) अपि च (संरुधम्) रुधेः-क्विप्। निरोधकम्। विघ्नकारिणम् (अविम्) अजाम् (वृकः) अरण्यश्वा (यथा) (मथत्) मथ्नाति (एव) एवम् (मथ्नामि) नाशयामि (ते) तव (कृतम्) कर्म ॥
इस भाष्य को एडिट करें