Loading...
अथर्ववेद > काण्ड 7 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 4
    सूक्त - अथर्वा देवता - ब्रह्मणस्पतिः छन्दः - विराट्प्रस्तारपङ्क्तिः सूक्तम् - विषभेषज्य सूक्त

    अ॒यं यो व॒क्रो विप॑रु॒र्व्यङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑। तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥

    स्वर सहित पद पाठ

    अ॒यम् । य: । व॒क्र: । विऽप॑रु: । विऽअ॑ङ्ग: । मुखा॑नि । व॒क्रा । वृ॒जि॒ना । कृ॒णोषि॑ । तानि॑ । त्वम् । ब्र॒ह्म॒ण॒: । प॒ते॒ । इ॒षीका॑म्ऽइव । सम् । न॒म॒: ॥५८.४॥


    स्वर रहित मन्त्र

    अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि। तानि त्वं ब्रह्मणस्पत इषीकामिव सं नमः ॥

    स्वर रहित पद पाठ

    अयम् । य: । वक्र: । विऽपरु: । विऽअङ्ग: । मुखानि । वक्रा । वृजिना । कृणोषि । तानि । त्वम् । ब्रह्मण: । पते । इषीकाम्ऽइव । सम् । नम: ॥५८.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 4

    टिप्पणीः - ४−(अयम्) (यः) विषरोगी (वक्रः) कुटिलावयवः (विपरुः) विश्लिष्टपर्वा विकृतसन्धिः (व्यङ्गः) विकृताङ्गः (मुखानि) मुखावयवान् (वक्रा) कुटिलानि (वृजिना) अ० १।१०।३। क्लिष्टानि (कृणोषि) प्रथमस्य मध्यमपुरुषः। कृणोति। करोति (तानि) अङ्गानि (त्वम्) (ब्रह्मणस्पते) प्रवृद्धस्य ज्ञानस्य रक्षक वैद्यराज (इषीकाम्) ईषेः किद्ध्रस्वश्च। उ० ४।२१। ईष हिंसने-ईकन्, टाप्। काशं मुञ्जं वा (इव) यथा (सम्) संगत्य (नमः) णम प्रह्वत्वे शब्दे च-लेटि, अडागमः। सं नमय। ऋजू कुरु ॥

    इस भाष्य को एडिट करें
    Top