Loading...
अथर्ववेद > काण्ड 7 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 5
    सूक्त - अथर्वा देवता - वृश्चिकादयः छन्दः - अनुष्टुप् सूक्तम् - विषभेषज्य सूक्त

    अ॑र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः। वि॒षं ह्यस्यादि॒ष्यथो॑ एनमजीजभम् ॥

    स्वर सहित पद पाठ

    अ॒र॒सस्य॑ । श॒र्कोट॑स्य । नी॒चीन॑स्य । उ॒प॒ऽसर्प॑त: । वि॒षम् । हि । अ॒स्य॒ । आ॒ऽअदि॑षि । अथो॒ इति॑ । ए॒न॒म् । अ॒जी॒ज॒भ॒म् ॥५८.५॥


    स्वर रहित मन्त्र

    अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः। विषं ह्यस्यादिष्यथो एनमजीजभम् ॥

    स्वर रहित पद पाठ

    अरसस्य । शर्कोटस्य । नीचीनस्य । उपऽसर्पत: । विषम् । हि । अस्य । आऽअदिषि । अथो इति । एनम् । अजीजभम् ॥५८.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 5

    टिप्पणीः - ५−(अरसस्य) निर्बलस्य तुच्छस्य। यद्वा। अत्यविचमितमि०। उ० ३।११७। ऋ हिंसायाम्-असच्। हिंसकस्य (शर्कोटस्य) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। शॄ हिंसायां-विच्+कुट कौटिल्ये-घञ्। शरा हिंसनेन कुटिलीकरस्य (नीचीनस्य) नीच-ख। नीचदेशे भवस्य (उपसर्पतः) समीपं गच्छतः (विषम्) (हि) अवश्यम् (आ-अदिषि) दो खण्डने लुङ्, अत्मनेपदं छान्दसम्। सर्वतः खण्डितवानस्मि (अथो) अपि च (एनम्) जन्तुम् (अजीजभम्) जभि हिंसने। अनीनशम् ॥

    इस भाष्य को एडिट करें
    Top