अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 8
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्येन च। आ॒स्ये॒ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ॥
स्वर सहित पद पाठय: । उ॒भाभ्या॑म् । प्र॒ऽहर॑सि । पुच्छे॑न । च॒ । आ॒स्ये᳡न । च॒ । आ॒स्ये᳡ । न । ते॒ । वि॒षम् । किम् । ऊं॒ इति॑ । ते॒ । पु॒च्छ॒ऽधौ । अ॒स॒त् ॥५८.८॥
स्वर रहित मन्त्र
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च। आस्ये न ते विषं किमु ते पुच्छधावसत् ॥
स्वर रहित पद पाठय: । उभाभ्याम् । प्रऽहरसि । पुच्छेन । च । आस्येन । च । आस्ये । न । ते । विषम् । किम् । ऊं इति । ते । पुच्छऽधौ । असत् ॥५८.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(यः) (उभाभ्याम्) द्वाभ्याम् (प्रहरसि) बाधसे (पुच्छेन) म० ६। लाङ्गलेन (आस्येन) मुखेन (च च) समुच्चये (आस्ये) मुखे (न) निषेधे (ते) तव (विषम्) (किम् असत्) किं स्यात्, न भवेदित्यर्थः (ते) तव (पुच्छधौ) पुच्छ+डुधाञ्-कि। पुच्छधान्याम् ॥
इस भाष्य को एडिट करें