अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 5
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - विराड्गायत्री
सूक्तम् - विराट् सूक्त
तस्या॒ इन्द्रो॑ व॒त्स आसी॑द्गाय॒त्र्यभि॒धान्य॒भ्रमूधः॑ ॥
स्वर सहित पद पाठतस्या॑: । इन्द्र॑: । व॒त्स: । आसी॑त् । गा॒य॒त्री । अ॒भि॒ऽधानी॑ । अ॒भ्रम् । ऊध॑: ॥११.५॥
स्वर रहित मन्त्र
तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥
स्वर रहित पद पाठतस्या: । इन्द्र: । वत्स: । आसीत् । गायत्री । अभिऽधानी । अभ्रम् । ऊध: ॥११.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(तस्याः) विराजः (इन्द्रः) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट०। पा० ५।२।९३। जीवः (वत्सः) वद कथने-स। उपदेष्टा (आसीत्) (गायत्री) अ० ८।९।१४। गानयोग्या वेदवाणी (अभिधानी) कथनशक्तिः (अभ्रम्) मेघः (ऊधः) श्वेः संप्रसारणं च। उ० ४।१९३। वह प्रापणे-असुन्, यद्वा उन्दी क्लेदने-असुन्, ऊधादेशः। सेचनसामर्थ्यम् ॥
इस भाष्य को एडिट करें