अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 7
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी पङ्क्तिः
सूक्तम् - विराट् सूक्त
ओष॑धीरे॒व र॑थन्त॒रेण॑ दे॒वा अ॑दुह्र॒न्व्यचो॑ बृ॒हता ॥
स्वर सहित पद पाठओष॑धी: । ए॒व । र॒थ॒म्ऽत॒रेण॑ । दे॒वा: । अ॒दु॒ह्र॒न् । व्यच॑: । बृ॒ह॒ता ॥११.७॥
स्वर रहित मन्त्र
ओषधीरेव रथन्तरेण देवा अदुह्रन्व्यचो बृहता ॥
स्वर रहित पद पाठओषधी: । एव । रथम्ऽतरेण । देवा: । अदुह्रन् । व्यच: । बृहता ॥११.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७, ८−(ओषधीः) अन्नादिपदार्थान् (एव) अवश्यम् (रथन्तरेण) म० ६। जगद्द्वारा (देवाः) गतिशीला लोकाः (अदुह्रन्) अदुहन्। प्रपूरितवन्तः (व्यचः) निरु० ८।१०। विस्तारम् (बृहता) म० ६। प्रवृद्धेनाकाशेन (अपः) प्रजाः−दयानन्दभाष्ये, यजु० ६।२७। उत्पन्नान् पदार्थान् (वामदेव्येन) म० ६। मनोहरेण परमात्मना विज्ञापितेन भूतपञ्चकेन (यज्ञम्) संयोगवियोगव्यवहारम् (यज्ञायज्ञियेन) म० ६। सर्वयज्ञेभ्यो हितेन वेदज्ञानेन ॥
इस भाष्य को एडिट करें