अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - आसुरी गायत्री
सूक्तम् - अतिथि सत्कार
सर्वो॒ वा ए॒ष ज॒ग्धपा॑प्मा॒ यस्यान्न॑म॒श्नन्ति॑ ॥
स्वर सहित पद पाठसर्व॑: । वै । ए॒ष: । ज॒ग्धऽपा॑प्मा । यस्य॑ । अन्न॑म् । अ॒श्नन्ति॑ ॥७.८॥
स्वर रहित मन्त्र
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥
स्वर रहित पद पाठसर्व: । वै । एष: । जग्धऽपाप्मा । यस्य । अन्नम् । अश्नन्ति ॥७.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(सर्वः) प्रत्येकः (वै) एव (एषः) गृहस्थः (जग्धपाप्मा) अद भक्षणे-क्त। अदो जग्धिर्ल्यप्ति किति। पा० २।४।३६। जग्धादेशः। नामन्सीमन्व्योमन्। उ० ४।१५१। पा रक्षणे, पा पाने वा-मनिन् धातोः पुक्। भक्षितं नाशितं पापं येन (यस्य) गृहस्थस्य (अन्नम्) (अश्नन्ति) खादन्ति ॥
इस भाष्य को एडिट करें