अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदार्ची पङ्क्तिः
सूक्तम् - अतिथि सत्कार
योऽति॑थीनां॒ स आ॑हव॒नीयो॒ यो वेश्म॑नि॒ स गार्ह॑पत्यो॒ यस्मि॒न्पच॑न्ति॒ स द॑क्षिणा॒ग्निः ॥
स्वर सहित पद पाठय: । अति॑थीनाम् । स: । आ॒ऽह॒व॒नीय॑: । य: । वेश्म॑नि । स: । गार्ह॑ऽपत्य: । यस्मि॑न् । पच॑न्ति । स: । द॒क्षि॒ण॒ऽअ॒ग्नि: ॥७.१३॥
स्वर रहित मन्त्र
योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन्पचन्ति स दक्षिणाग्निः ॥
स्वर रहित पद पाठय: । अतिथीनाम् । स: । आऽहवनीय: । य: । वेश्मनि । स: । गार्हऽपत्य: । यस्मिन् । पचन्ति । स: । दक्षिणऽअग्नि: ॥७.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(यः) सङ्गः (अतिथीनाम्) विदुषां संन्यासिनाम् (सः) सङ्गः (आहवनीयः) अ० ८।१०।(१)।४। ब्रह्मचारिभिर्ग्राह्यो होमाग्निः (यः) निवासः (वेश्मनि) गृहे (सः) (गार्हपत्यः) अ० ५।३१।५। गृहपतिभिः संयुक्तः (यस्मिन्) जाठराग्नौ (पचन्ति) (सः) (दक्षिणाग्निः) अ० ८।१०।(१)।६। दक्षिणोऽनुकूलोऽग्नि। वानप्रस्थानां होमाग्निः ॥
इस भाष्य को एडिट करें