अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - वातपत्नी
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठइ॒मा: । या: । दे॒वी: । प्र॒ऽदिश॑: । चत॑स्र: । वात॑ऽपत्नी: । अ॒भि । सूर्य॑: । वि॒ऽचष्टे॑ । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.४॥
स्वर रहित मन्त्र
इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठइमा: । या: । देवी: । प्रऽदिश: । चतस्र: । वातऽपत्नी: । अभि । सूर्य: । विऽचष्टे । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 4
विषय - आरोग्य और रोग विनाश ।
भावार्थ -
हे व्याधिपीड़ित ! तेरे चारों ओर ( याः ) जो ( इमाः ) ये ( देवीः ) प्रकाश वाली और ( वातपत्नीः ) वायु जिनका अधिपति है अर्थात् जो उत्तम शुद्ध वायु से युक्त तथा (सूर्यः) सूर्य, सूर्य का प्रकाश (अभि) जिनके ऊपर (विचष्टे) विशेष रूप से पड़ता है और उनको प्रकाशित करता है । ( चतस्रः ) वे चार ( प्रदिशः ) दिशाएं तेरे लिये कल्याणकारिणी हों। ‘एवाहं’ इत्यादि पूर्ववत्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। निर्ऋतिर्धावापृथिव्यादयो नानादेवताः। १ ब्रह्मणा सह द्यावापृथिवी स्तुतिः। २ अद्भिः सह अग्निस्तुतिः। ओषधीभिः सह सोमस्तुतिश्च। ३ वातस्तुतिश्चतुर्दिवस्तुतिश्च। ४, ६ वातपत्नी सूर्ययक्ष्मनिर्ऋतिप्रभूतिस्तुतिः। १ त्रिष्टुप् । २ सप्तपाद अष्टिः। ३, ५, ७, ८ सप्तपादो धृतयः। सप्तपाद अत्यष्टिः। ८ अत्रोत्तरौ द्वौ औष्णिहौ पादौ । अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें