अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - सूर्यः
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
तासु॑ त्वा॒न्तर्ज॒रस्या द॒धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठतासु॑ । त्वा॒ । अ॒न्त:। ज॒रसि॑ । आ । द॒धा॒मि॒ । प्र । यक्ष्म॑: । ए॒तु॒ । नि:ऋ॑ति:। प॒रा॒चै: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.५॥
स्वर रहित मन्त्र
तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निरृतिः पराचैः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठतासु । त्वा । अन्त:। जरसि । आ । दधामि । प्र । यक्ष्म: । एतु । नि:ऋति:। पराचै: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 5
विषय - आरोग्य और रोग विनाश ।
भावार्थ -
हे व्याधिपीड़ित ! (त्वा) तुझको मैं वैद्य (जरसि) वृद्धावस्था तक भी (तासु) पूर्वोक्त प्रकार से बतलाये गुण वाली दिशाओं में अर्थात् जिनमें उत्तम वायु और उत्तम सूर्य-प्रकाश अच्छी प्रकार से हों उनमें ही (आदधामि) रहने का आदेश करता और तुझे रखता हूं, (यक्ष्म) यक्ष्मा, राजयक्ष्मा जो सूक्ष्म जीवकीट या रोगजन्तुओं से उत्पन्न होने वाली व्याधि है वह (प्र एतु) सर्वथा दूर हो जाय और (निर्ऋतिः) शरीर की सब क्लेशदशा भी (पराचैः) दूर हो जाय, ‘एवाहं०’ इत्यादि पूर्ववत् ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
भृग्वंगिरा ऋषिः। निर्ऋतिर्धावापृथिव्यादयो नानादेवताः। १ ब्रह्मणा सह द्यावापृथिवी स्तुतिः। २ अद्भिः सह अग्निस्तुतिः। ओषधीभिः सह सोमस्तुतिश्च। ३ वातस्तुतिश्चतुर्दिवस्तुतिश्च। ४, ६ वातपत्नी सूर्ययक्ष्मनिर्ऋतिप्रभूतिस्तुतिः। १ त्रिष्टुप् । २ सप्तपाद अष्टिः। ३, ५, ७, ८ सप्तपादो धृतयः। सप्तपाद अत्यष्टिः। ८ अत्रोत्तरौ द्वौ औष्णिहौ पादौ । अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें