अथर्ववेद - काण्ड 2/ सूक्त 11/ मन्त्र 4
सूक्त - शुक्रः
देवता - कृत्यादूषणम्
छन्दः - पिपीलिकमध्यानिचृद्गायत्री
सूक्तम् - श्रेयः प्राप्ति सूक्त
सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानो॑ ऽसि। आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
स्वर सहित पद पाठसू॒रि: । अ॒सि॒ । व॒र्च॒:ऽधा: । अ॒सि॒ । त॒नू॒ऽपान॑: । अ॒सि॒ । आ॒प्नु॒हि । श्रेयां॑सम् । अति॑ । स॒मम् । क्रा॒म॒ ॥११.४॥
स्वर रहित मन्त्र
सूरिरसि वर्चोधा असि तनूपानो ऽसि। आप्नुहि श्रेयांसमति समं क्राम ॥
स्वर रहित पद पाठसूरि: । असि । वर्च:ऽधा: । असि । तनूऽपान: । असि । आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥११.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 11; मन्त्र » 4
विषय - राजा को उपदेश ।
भावार्थ -
हे राजन् ! (सूरिः असि) तू विद्वान् धर्मोपदेष्टा या शत्रुतापक है, अतएव (वर्चोधाः असि) तू वर्चस् अर्थात् तेज का धारण करने हारा है । तू ( तनूपानः असि ) अपने और समस्त प्रजाओं के शरीरों की भी रक्षा करने हारा है। ( श्रेयांसम् आप्नुहि ) इसलिये सबसे अधिक श्रेष्ठपद को तू ही प्राप्त कर और (समम्) अपने समान प्रतिस्पर्धी से (अति क्राम) अधिक आगे बढ़ ।
टिप्पणी -
सूरिः, ‘स्वृ’ शब्दोपतापयोः। शब्दनमुपदेशः तत्कर्त्ता सूरिर्विद्वान् अभिज्ञ इति सायणः। अथवा उपतापकः शत्रूणां सूरिः।
ऋषि | देवता | छन्द | स्वर -
शुक्र ऋषिः । कृत्यादूषणं देवता । कृत्यापरिहरणसूक्तम् । स्त्रात्तयमणेः सर्वरूपस्तुतिः । १ चतुष्पदा विराड् गायत्री । २-५ त्रिपदाः परोष्णिहः । ४ पिपीलिकामध्या निचृत् । पञ्चर्चं सूक्तम् ।
इस भाष्य को एडिट करें